+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter - 10 -

उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, शत्रुसंकटे च यः सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति। परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। येन मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति। तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते। देशानां विकासः अपि अवरुद्धः भवति।
भावार्थ- उत्सव में, व्यक्तिगत संकट पडने पर, अकाल में, देश में आपदा आने पर और दैनिक व्यवहार में जो सहायता करता है, वह मित्र होता है। यदि संसार में सब जगह ऐसा ही भाव हो जाए तब विश्व में भाई चारा संभव है। परन्तु अब संसार में कलह और अशांति का वातावरण है। लोग आपस में विश्वास नहीं करते हैं। वे दूसरों के कष्ट को अपना कष्ट नहीं मानते हैं। और भी समर्थ देश असमर्थ देशों के प्रति अनादर भाव दिखाते हैं। उनके उपर अपना प्रभुत्व स्थापित करते हैं।संसार में सब जगह द्वेश, शत्रुता और हिंसा की भावना दिखाई देती है।देशों का विकाश भी बाधित होता है।
एतेषां सर्वेषां कारणं विश्वबन्धुत्वस्य अभाव एव। इयम् महती आवश्यकता वर्तते यत् एकः देशः अपरेण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात्। यदि इयं भावना विश्वस्य जनेषु बलवती स्यात् तदा विकसिताविकसितदेशयोः मध्ये स्वस्था स्पर्धा भविष्यति। येन सर्वे देशाः ज्ञानविज्ञानयोः क्षेत्रे मैत्राीभावनया सहयोगेन च समृद्धिं प्राप्तुं समर्थाः भविष्यन्ति। अस्माभिः अवश्यं ध्यातव्यं यत् विश्वस्य सर्वेषु प्राणिषु समानं रुधिरं प्रसरति। सूर्यस्य चन्द्रस्य च प्रकाशः सर्वत्र समानरूपेण प्रसरति। अनेन ज्ञायते यत् प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति, तस्मात् अस्माभिः सर्वैः परस्परं वैरभावम् अपहाय विश्वबन्ध्ुत्वं स्थापनीयम्।
भावार्थ-इन सब कार से विश्व बंधुत्ता का अभाव है । यह बहुत आवश्यक है कि एक देश दूसरे देश के साथ निर्मल हृदय से बंधुता का व्यवहार करना चाहिए। संसार के लोगों में यह भावना आवश्यक है। तब ही विकसित और अविकसित देशों के बीच सही मुकाबला होगा।सभी देश ज्ञान-विज्ञान के क्षेत्र में मैत्री भावना और सहयोग से समृद्धि प्राप्त करने में समर्थ होंगे। सूर्य और चन्द्रमा का प्रकाश सब जगह समान रुप से फैलता है। प्रकृति भी सभी के साथ समान व्यवहार रखती है।
अतः विश्वस्य कल्याणाय एतादृशी भावना भवेत्-
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।
भावार्थ- इसलिए हम सब को भी आपस में वैर भाव छोड.कर विश्व के प्रति भाई-चारा स्थापित करना चाहिए। यह मेरा है, यह पराया है, ऐसी सोच छोटे मन वालों की होती है। उदार हृदय वालों के लिए तो सम्पूर्ण पृथ्वी ही उनका परिवार होती है।
Page-55-Q.1: उच्चारणं कुरुत-
दुर्भिक्षे    राष्ट्रविप्लवे    विश्वबन्धुत्वम्
विश्वसन्ति    उपेक्षाभावाम्    विद्वेषस्य
ध्यातव्यम्    दुःखभाक्    प्रदर्शयन्ति
विद्यार्थी स्वयं ।
Page-55-Q.2: मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
[1] स्वकीयम् ………………………आत्मानम्
[2]अवरुद्धः ………………………बाधितः
[3]कुटुम्बकम् ………………………परिवार:
[4]अन्यस्य ………………………परस्य
[5]अपहाय ………………………त्यक्त्वा
]6]समृद्धम् ……………………… सम्पन्नम्
[7]कष्टम् ………………………दुःखम्
[8]निखिले ………………………सम्पूर्ण
Page-56-Q.3: रेखाङ्कितानि पदानि संशोध्य लिखत-
(क) छात्राः क्रीडाक्षेत्रे कुन्दुकात् क्रीडन्ति।
ANS- (क) छात्रा: क्रीडाक्षेत्रे कन्दुकेन् क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।
ANS-(ख) ता: बालिका: मधुरं गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
ANS-(ग) अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?
ANS-(घ) त्वाम् किं नाम?

(ङ) गुरुं नमः।
ANS-(ङ) गुरवे नम:।
Page-56-Q.4: मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
पदविल्रोमपदानि
शत्रुतायाः मित्रतायाः
पुरा अधुना
मानवाः दानवाः
उदारचरितानाम्लघुचेतसाम्
सुखिनः दुःखिनः
अपहाय गृहीत्वा
Page-56-Q.5: अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-
पदानिलिडगम्विभक्ति:वचनम्
बन्धु:पुल्लिंगप्रथमाएकवचनम्
देशान् पुल्लिंगद्वितीयाबहुवचनम्
घृणाया: स्त्रीलिंगपज्चमीएकवचनम
कुटुम्बकम् नपुंसक लिंगद्वितीयाएकवचनम्
रक्षायाम स्त्रीलिंगसप्तमीएकवचनम
रुधिरम्नपुंसक लिंगद्वितीयाएकवचनम्
Page-57-Q.6: कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
(क) विद्यालयम् उभयत: वृक्षा: सन्ति। (विद्यालय)
कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परित: गोचारणभूमि:। (ग्राम)
मन्दिरं परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नम:। (सूर्य)
गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगा:। (वृक्ष)
अश्वस्य उपरि सैनिक:। (अश्व)

Page-57-Q.7: कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
(क) ……………….. नमः। (हरिं/हरये)
(क) हरये नम:। (हरिं/हरये)

(ख) ……………….. पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
(ख) ग्रामम् परित: कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)

(ग) ……………….. नमः। (अम्बायाः/अम्बायै)
(ग) अम्बायै नम:। (अम्बाया:/अम्बायै)

(घ) ……………….. उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)
(घ) मञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)

(ङ) ……………. उभयतः पत्रौ स्तः। (पितरम्/पितुः)
(ङ) पितरम् उभयत: पुत्रौ स्त:। (पितरम्/पितु:)