+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter 11 – सावित्री बाई फुले

S.No.-QUESTIONS
ANSWERS
उपरि निर्मितं चित्रं पश्यत। इदं चित्रं कस्याश्चित् पाठशालायाः वर्तते। इयं सामान्या पाठशाला नास्ति। इयमस्ति महाराष्टंस्य प्रथमा कन्यापाठशाला। एका शिक्षिका गृहात् पुस्तकानि आदाय चलति। मार्गे कश्चित् तस्याः उपरि ध्ूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। परं सा स्वदृढनिश्चयात् न विचलति। स्वविद्यालये कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति। तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति। केयं महिला? अपि यूयमिमां महिलां जानीथ? इयमेव महाराष्टंस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले नामधेया।
सरलार्थ- -------------------coming soon-----।
जनवरी मासस्य तृतीये दिवसे 1831 तमे ख्रिस्ताब्दे महाराष्टंस्य नायगांव-नाम्नि स्थाने सावित्री अजायत। तस्याः माता लक्ष्मीबाई पिता च खंडोजी इति अभिहितौ। नववर्षदेशीया सा ज्योतिबा-फुले-महोदयेन परिणीता। सोअपि तदानीं त्रायोदशवर्षकल्पः एव आसीत्। यतोहि सः स्त्रीशिक्षायाः प्रबलः समर्थकः आसीत् अतः सावित्रयाः मनसि स्थिता अध्ययनाभिलाषा उत्साहं प्राप्तवती। इतः परं सा साग्रहम् आड़्ग्लभाषाया अपि अध्ययनं कृतवती।
सरलार्थ--------------coming soon--------------।
1848 तमे ख्रिस्ताब्दे पुणेनगरे सावित्री ज्योतिबामहोदयेन सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत। तदानीं सा केवलं सप्तदशवर्षीया आसीत्। 1851 तमे ख्रिस्ताब्दे अस्पृश्यत्वात् तिरस्कृतस्य समुदायस्य बालिकानां कृते पृथक्तया तया अपरः विद्यालयः प्रारब्धः।
सरलार्थ------------------coming soon------------।
सामाजिककुरीतीनां सावित्राी मुखरं विरोधम् अकरोत्। विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता। फलतः केचन नापिताः अस्यां रूढौ सहभागिताम् अत्यजन्। एकदा सावित्रया मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म। उच्चवर्गीयाः उपहासं कुर्वन्तः कूपात् जलोद्धरणम् अवारयन्। सावित्राी एतत् अपमानं सोढुं नाशक्नोत्। सा ताः स्त्रिायः निजगृहं नीतवती। तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत। सार्वजनिकोअयं तडागः। अस्मात् जलग्रहणे नास्ति जातिबन्धनम्। तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा सर्वथा समर्थितः।
सरलार्थ-----------coming soon----------।
‘महिला सेवामण्डल’ ‘शिशुहत्या प्रतिबन्धक गृह’ इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानम् महत्वपूर्णम्। सत्यशोधकमण्डलस्य गतिविधिषु अपि सावित्री अतीव सक्रिया आसीत्। अस्य मण्डलस्य उद्देश्यम् आसीत् उत्पीडितानां समुदायानां स्वाधिकारान् प्रति जागरणम् इति।
सरलार्थ-----------coming soon----------।
सावित्री अनेकाः संस्थाः प्रशासनकौशलेन संचालितवती। दुर्भिक्षकाले प्लेग-काले च सा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्। सहायता- सामग्री-व्यवस्थायै सर्वथा प्रयासम् अकरोत्। महारोगप्रसारकाले सेवारता सा स्वयम् असाध्यरोगेण ग्रस्ता 1897 तमे ख्रिस्ताब्दे निधनं गता।
सरलार्थ-----------coming soon----------।
साहित्यरचनया अपि सावित्री महीयते। तस्याः काव्यसंकलनद्वयं वर्तते ‘काव्यपुफले’‘सुबोधरत्नाकर’ चेति। भारतदेशे महिलोत्थानस्य गहनावबोधय सावित्रीमहोदयायाः जीवनचरितम् अवश्यम् अध्येतव्यम्।
सरलार्थ-----------coming soon----------।
Page No-79: Q.1: एकपदेन उत्तरत–
(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
(क) सामाजिककुरीतीनाम्

(ख) के कूपात् जलोद्धरणम् अवारयन्?
(ख) शीर्णवस्त्रावृताः निम्नजातीयाः नार्यः

(ग) का स्वदृढनिश्चयात् न विचलति?
(ग) सावित्रीवाई

(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
(घ) नापितैः

(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(ङ) बालिकानाम्

Page No 79: Q.2: पूर्णवाक्येन उत्तरत–
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
(क) सामाजिकात्याचारं सहमानापि सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

(ख) सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम आसीत् खंडोजी इति।

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्वपत्युः स्त्रीशिक्षासमर्थनेन उत्साहं प्राप्तवती।

(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
(घ) जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती। एवञ्च, सा स्वगृहस्थं तडागं दर्शयित्वा यथेष्टं जलं नेतुम् अकथयत्।

(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
(ङ) "महिला सेवामण्डल" "शिशुहत्या प्रतिबन्धक गृह" इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्वपूर्णम् आसीत्।

(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
(च) सत्यशोधकमण्डलस्य उद्देश्यमासीत् उत्पीडितानां समुदयानां स्वाधिकारान् प्रति जागरणम्।

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
(छ) तस्याः काव्यसंकलनद्वयं वर्तते "काव्यफुले" "सुबोधरत्नाकर" चेति।

Page No 79: Q.3: रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(क) सावित्रीवाई, काभिः सविनोदम् आलापयन्ती अध्यापने संलग्ना भवति स्म?

(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्?
(ख) सा कस्य राज्यस्य प्रथमा महिला शिक्षिका असीत्?

(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(ग) सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
(घ) तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?

(ङ) साहित्यरचनया अपि सावित्री महीयते?
(ङ) साहित्यरचनया अपि का महीयते?
Page No 79: Q.4: यथानिर्देशमुत्तरत–
(क) इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) इदं चित्रं पाठशालाया वर्तते - अत्र ’वर्तते’ इति क्रियापदस्य कर्तृपदं भवति ’वर्तनम्’ इति।

(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति - अस्स्मिन् वाक्ये चिशेषणं भवति ’स्वकीयम्’ इति।

(ग) अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
(ग) अपि यूयमिमां महिलां जानीथ - अस्मिन् वाक्ये ’यूयम्’ इति पदं अस्मभ्यः प्रयुक्तम्।

(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(घ) सा ताः स्त्रियः निजगृहं नीतवती - अस्मिन् वाक्ये ’सा’ इति सर्वनामपदं सावित्रीवाई इत्यस्यै प्रयुक्तम्।

(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म - अत्र ’नार्यः’ इति पदस्य विशेषणपदानि चत्वारि सन्ति। तानि च - शीर्णवस्त्रावृताः इति, तथाकथिताः इति, निम्नजातीयाः इति, काश्चित् इति च।
Page No 79: Q.5: अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
(क) स्वकीयम् – .....................................
(क) स्वकीयम् - स्वकीयं पुस्तकम् आनय।

(ख) सविनोदम् – ........................................................
(ख) सविनोदम् - शिक्षकः सविनोदं छात्रान् पाठयति।

(ग) सक्रिय – ........................................................
(ग) सक्रिय - छात्राणां सर्वतो विकासाय शिक्षकाः सदैव सक्रियाः भवन्ति।

(घ) प्रदेशस्य – ........................................................
(घ) प्रदेशस्य - अस्य प्रदेशस्य ख्यातिः दिक्षु प्रसृतास्ति।

(ङ) मुखरम् – ........................................................
(ङ) मुखरम् - स्थानमिदं विहगदलरवेण सततं मुखरं विराजते।

(च) सर्वथा – ........................................................
(च) सर्वथा - सत्यरक्षायै सर्वथा यतनीयम्।
Page No 80:Q.6: (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
(क) उपारि - उत्पीटिकायाः उपरि चषकं स्थापय।

(ख) आदानम् - स्तेयवस्तूनाम् आदानं न युक्तम्।

(ग) परकीयम् - परकीयं जीवनं न शोभते साधुजनाय

(घ) विषमता - विषमता प्रस्तरस्य धर्मः।

(ङ) व्यक्तिगतम् - व्यक्तिगतं यत्किञ्चिदपि सदैव गोपयेत् पुरुषः।

(च) आरोहः - सरलो नास्ति नगारोहः।
Page No 80: 6:(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
पदसमानार्थक
शिक्षणे अध्यापने
पथि मार्गे
हृदय मनसि
इच्छानुसारम् यथेष्टम्
योगदानम् अवदानम्
निरन्तरम्अविरतम्
Page No 80: Q.7: (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–
पदानि लिंगम् विभक्तिः वचनम्
नाम्नि क्लीवलिंगम् सप्तमीएकवचनम्
अपरः पुंर्लिगम् प्रथमा एकवचनम्
धूलिम् पुंर्लिगम् द्वितीयाएकवचनम्
कन्यानाम स्त्रीलिंगम् षष्ठी बहुवचनम्
सहभागिता स्त्रीलिंगम् प्रथमा एकवचनम्
नामितैः पुंर्लिगम् तृतीया बहुवचनम्
Q.7: (आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यथा – सा शिक्षिका अस्ति। (लङ्लकारः)
सा शिक्षिका आसीत्।

(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)
(क) सा अध्यापने संलग्ना भविष्यति।

(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ख) सः त्रयोदशवर्षकप्लः आसीत्।

(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(ग) महिलाः तडाहात् जलं नयन्तु।

(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
(घ) वयः प्रतिदिनं पाठं पठेम।

(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
(ङ) यूयं किं विद्यालयं गमिष्यथ?

(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)
(च) ते बालकाः विद्यालयात् गृहं अगच्छन्।
Page No 24:(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – पथि
राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय
पाषाण (सप्तमी-एकवचने) – पाषाणे
यान (द्वितीया-बहुवचने) – यानानि
शक्ति (प्रथमा-एकवचने) – शक्तिः
पशु (सप्तमी-बहुवचने) – पशुषू