S.No.-QUESTIONS | ||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ANSWERS | ||||||||||||||
पूर्वदिशायाम् उदेति सूर्यः पश्चिमदिशायां च अस्तं गच्छति इति दृश्यते हि लोके। परं न अनेन अवबोधयमस्ति यत्सूर्यो गतिशील इति। सूर्योचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति साम्प्रतं सुस्थापितः सिद्धान्तः। सिद्धान्तोअयं प्राथम्येन येन प्रवर्तितः, स आसीत् महान् गणितज्ञः ज्योतिर्विच्च आर्यभटः। पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः तेन प्रत्यादिष्टा। तेन उदाहृतं यद् गतिशीलायां नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति, अन्यान् च पदार्थान् गतिशीलान् अवगच्छति। एवमेव गतिशीलायां पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिरामनुभवति सूर्यादिग्रहान् च गतिशीलान् वेत्ति। | ||||||||||||||
सरलार्थ- -----coming soon---------। | ||||||||||||||
476 तमे ख्रिस्ताब्दे षट्सप्तत्यध्किचतुःशततमे वर्षे आर्यभटः जन्म लब्धवानिति तेनैव विरचिते ‘आर्यभटीयम्’ इत्यस्मिन् ग्रन्थे उल्लिखितम्। ग्रन्थोअयं तेन त्रायोविंशतितमे वयसि विरचितः। ऐतिहासिकस्त्रोतोभिः ज्ञायते यत् पाटलिपुत्रां निकषा आर्यभटस्य वेधशाला आसीत्। अनेन इदम् अनुमीयते यत् तस्य कर्मभूमिः पाटलिपुत्रामेव आसीत्। | ||||||||||||||
सरलार्थ------------coming soon -------। | ||||||||||||||
आर्यभटस्य योगदानं गणितज्योतिषा सम्बद्धं वर्तते यत्र संख्यानाम् आकलनं महत्त्वम् आदधति। आर्यभटः फलितज्योतिषशास्त्रो न विश्वसिति स्म। गाणितीयपद्धत्या कृतम् आकलनमाधृत्य एव तेन प्रतिपादितं यद् ग्रहणे राहु-केतुनामकौ दानवौ नास्ति कारणम्। तत्र तु सूर्यचन्द्रपृथिवी इति त्रीणि एव कारणानि। सूर्यं परितः भ्रमन्त्याः पृथिव्याः, चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति। यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति। तथैव पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते। | ||||||||||||||
सरलार्थ-----coming soon -----------------। | ||||||||||||||
समाजे नूतनानां विचाराणां स्वीकारणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति। भारतीयज्योतिःशास्त्रो तथैव आर्यभटस्यापि विरोधः अभवत्। तस्य सिद्धान्ताः उपेक्षिताः। स पण्डितम्मन्यानाम् उपहासपात्रां जातः। पुनरपि तस्य दृष्टिः कालातिगामिनी दृष्टा। आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्। वस्तुतः भारतीयायाः गणितपरम्परायाः अथ च विज्ञानपरम्परायाः असौ एकः शिखरपुरुषः आसीत्। | ||||||||||||||
सरलार्थ----------coming soon ----------------। | ||||||||||||||
Page No-105: Q.1: एकपदेन उत्तरत − | ||||||||||||||
(क) सूर्यः कस्यां दिशायाम् उदेति? (क) पूर्वस्याम् । (ख) आर्यभटस्य वेधशाला कुत्र आसीत्? (ख) पाटलीपुत्रे। (ग) महान गणितज्ञ: ज्योतिविच्च क: अस्ति? (ग) आर्यभट: । (घ) आर्यभटेन क: ग्रन्थ: रचित:? (घ) आर्यभटीयम्। (ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति? (ङ) आर्यभट: । |
||||||||||||||
Page No 105: Q.2: पूर्णवाक्येन उत्तरत– | ||||||||||||||
(क) कः सुस्थापितः सिद्धांत? (क) सूर्यः अचलः पृथिवी च चला। सा च पृथिवी स्वकीये अक्षे घूर्णेति इति साम्प्रतं सुस्थापितः सिद्धान्तः। (ख) चन्द्रग्रहणं कथं भवति? (ख) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति। (ग) सूर्यग्रहणं कथं दृश्यते? (ग) पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते। (घ) आर्यभटस्य विरोध: किमर्थमभवत्? (घ) समाजे नूतनानां सिद्धान्तानां स्वीकारणे सामान्यजनाः काठिन्यम् अनुभवन्ति। भारतीयज्योतिःशास्त्रे आर्यभटस्य सिद्धान्तः नूतनः आसीत्। तस्मात् तस्य विरोधः अभवत्। (ङ) प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्? (ङ) आधुनिकवैज्ञानिकाः आर्यभटं प्रति समादरं प्रकटयन्तः प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्। |
||||||||||||||
Page No 106: Q.3: रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत– | ||||||||||||||
(क) सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति? (क) सूर्यः कस्यां दिशायाम् अस्तं गच्छति? (ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः? (ख) पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः? (ग) आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते? (ग) आर्यभटस्य योगदानं किं संबद्धः वर्तते? (घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति? (घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुभवन्ति? (ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति? (ङ) कयोः मध्ये चन्द्रस्य छायापातेन सूर्यग्रहणं भवति? |
||||||||||||||
Page No 106:Q.4: मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत − | नौकाम् ,पृथिवी ,तदा ,चला ,अस्तं | |||||||||||||
(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च --------------------- गच्छति। (क) सूर्य: पूर्वदिशायाम् उदेति पश्चिम दिशि च अस्तं गच्छति। (ख) सूर्य: अचल: पृथिवी च ---------------------। (ख) सूर्य: अचल: पृथिवी च चला। (ग) --------------------- स्वकीये अक्षे घूर्णति। (ग) पृथिवी स्वकीये अक्षे घूर्णति। (घ) यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाश: अवरूध्यते --------------------- चन्द्रग्रहण भवति। (घ) यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहण भवति। (ङ) नौकायाम् उपविष्ट: मानव: --------------------- स्थिरामनुभवति। (ङ) नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति। |
||||||||||||||
Page No 106: Q.5: सन्धिविच्छेद कुरूत − | ||||||||||||||
(क) ग्रन्थोऽयम् - --------------------- + --------------------- (क) ग्रन्थोऽयम् - ग्रन्थ: + अयम् (ख) सूर्याचल: - --------------------- + --------------------- (ख) सूर्याचल: - सूर्य + अचल: (ग) तथैव - --------------------- + --------------------- (ग) तथैव - तथा + इव (घ) कालातिगामिनी - --------------------- + --------------------- (घ) कालातिगामिनी - काल + अतिगामिनी (ङ) प्रथमोपग्रहस्य - --------------------- + --------------------- (ङ) प्रथमोपग्रहस्य - प्रथम + उपग्रहस्य |
||||||||||||||
Page No 107:Q.6: (अ) अधेलिखितपदानां विपरीतार्थकपदानि लिखत– | ||||||||||||||
|
||||||||||||||
Page No 107: Q.6:(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत– | ||||||||||||||
|
||||||||||||||
Page No 107: Q.7: अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत– | ||||||||||||||
साम्प्रतम् – ................................................. साम्प्रतम् - साम्प्रतं यन्त्रमाध्यमेन वयं अधिकाधिकं कार्यं समापयामः। निकषा – ..................................................... निकषा - ग्रामं निकषा उद्यानं विद्यते। परितः – ............................................................ परितः –ee x`gL; ifjr% ukukHkkWfr o`{kk% lafrA उपविष्टः – ......................................................... उपविष्टः - आसनम् उपविष्टः स आत्मानं राजानं मन्यते। कर्मभूमिः – ......................................................... कर्मभूमिः - भारतमिति कर्मभूमिरियम्। वैज्ञानिकः – ........................................................ वैज्ञानिकः - वैज्ञानिकाः नवं नवं यन्त्रम् आविष्कुर्वन्ति। |