+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter 3 - डिजीभारतम्

S.No.-QUESTIONS
ANSWERS
अद्य संपूर्णविश्वे डिजिटलइण्डिया ̧ इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताअपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टंकणयंत्रस्य आविष्कारेण तु लिखिता सामग्री टंकिता सती बहुकालाय सुरक्षिता अतिष्ठत्।वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता। अद्य सर्वाणि कार्याणि संगणकनामकेन यंत्रेण साधितानि भवन्ति।समाचार-पत्राणि, पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च। कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कत्र्यन्ते स्म, परम् संगणकस्य अधिकाधिक-प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षायाः दिशि महान् उपकारो भविष्यति।
------------------------coming soon
अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति। डेबिट कार्ड ̧, क्रेडिट कार्ड ̧ इत्यादि सर्वत्रा रूप्यकाणां स्थानं गृहीतवन्तौ। वित्तकोशस्य (बैंकस्य ) चापि सर्वाणि कार्याणि संगणकयंत्रेण सम्पाद्यन्ते। बहुविधाः अनुप्रयोगाः मुद्राहीनाय विनिमयाय सहायकाः सन्ति। कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रास्य अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे ‘ई-मेल’ इति स्थाने सुरक्षितानि भवन्ति यानि सन्दश्र्य वयं सौकर्येण यात्रायाः आनन्दं गृह्रीमः। चिकित्सालयेअपि उपचारार्थं रूप्यकाणाम् आवश्यकताद्य नानुभूयते। सर्वत्र कार्डमाध्यमेन, ई-बैंकमाध्यमेन शुल्कम् प्रदातुं शक्यते।
-----------------------coming soon
तद्दिनं नातिदूरम् यदा वयम् हस्ते एकमात्रां चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः। वस्त्रापुटके रूप्यकाणाम् आवश्यकता न भविष्यति। ‘पास्बुक’ चैक्बुक’ इत्यनयोः आवश्यकता न भविष्यति। पठनार्थं पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति। लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा, नूतनज्ञानान्वेषणार्थम् शब्दकोशस्यावाअपि आवश्यकतापि न भविष्यति। अपरिचित-मार्गस्य ज्ञानार्थम् मार्गदर्शकस्य मानचित्रास्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति। एतत् सर्वं एकेनेव यन्त्रेण कर्तुम्, श्क्यते। शाकादिक्रयार्थम्, फलक्रयार्थम्, विश्रामगृहेषु कक्षं सुनिश्चितं कर्तुम् चिकित्सालये शुल्कं प्रदातुम्, विद्यालये महाविद्यालये चापि शुल्कं प्रदातुम्, किं बहुना दानमपि दातुम् चलदूरभाषयन्त्रमेव अलम्। डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।
---------------------coming soon
Page No 15:-1: प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) वकुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
(क) सम्पूर्णविश्वे।

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
(ख) कालपरिवर्तनेन

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
(ग) रूप्यकाणाम्

(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
(घ) कर्गदोद्योगे

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
(ङ) चलदूरभाषायन्त्रेण
Page 16:-2:अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत--
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
(क) प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।

(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
(ख) संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्य़ूनतां यास्यति।

(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
(ग) चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।

(घ) वयम् कस्यां दिशि अग्रेसरामः?
(घ) वयं डिजीभारतम् इत्यस्यां दिशि अग्रे सरामः।

(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
(ङ) वस्त्रपुटके रूप्यकाणाम् आवस्यकता न भवति।
Page No. 16: -3: रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।(
(क) भोजपत्रोपरि किम् आरब्धम्?

(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
(ख) लेखनार्थं कस्य आवस्यकतायाः अनुभूतिः न भविष्यति?

(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
(ग) कुत्र कक्षं सुनिश्चितं भवेत्?

(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति
(घ) सर्वाणि पत्राणि कुत्र चलदूरभाषयन्त्रे सुरक्षितानि?

(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः?
(ङ) वयं किमर्थं चिकित्सालयं गच्छामः?

Page No 16:- 4: उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत--
विशेषण     विशेष्य
(क) मौखिकं    ज्ञानम्
(ख) मनोगते    काले
(ग) टंकितानि    कार्याणि
(घ) महान्    उपकारः
(ङ) मुद्राविहीनः    विनिमयः
Page No 17:-5: अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
पदस्य + अस्य = पदस्यास्य
तालपत्र + उपरि = तालपत्रोपरि
च + अतिष्ठत = चातिष्ठत
कर्गद + उद्योगे = कर्गदोद्योगे
क्रय + अर्थम् = क्रयार्थम्
इति + अनयोः = इत्यनयोः
उपचार + अर्थम् = उपचारार्थम्
Page No 17:-6: उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
(क) आवश्यकता - अद्यतने काले चलदूरवाण्याः अवश्यकता सर्वैर्रपि अनुभूयते।
(ख) सामग्री - रन्धनार्थं सामग्री आपणतः आनेतव्या।
(ग) पर्यावरणसुरक्षा - पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम्।
(घ) विश्रामगृहम् - सम्प्रति विश्रामगृहेषु प्रायशः डेविट्-कार्डमाध्यमेन रूप्यकाणि प्रदीयन्ते।
Page No 17:-7: उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) छात्राय पुस्तकं देहि।(छात्र)
(ख) अहं निर्धनाय वस्त्राणि ददामि।(निर्धन)
(ग) लतायै पठनं रोचते।(लता)
(घ) रमेशः सुरेशाय अलम्।(सुरेश)
(ङ). अध्यापकाय नमः(अध्यापक)