+91 8962830525    info@raginee.in

Home School About Subject Category

Chapter 5 धर्मे धमनं पापे पुण्यं

S.No.-QUESTIONS
ANSWERS
आसीत् कश्चित् चंचलो नाम व्याध्रः। पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविकां निर्वाहयति स्म।। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रातःकाले यदा चंचलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोअचिन्तयत्, ‘व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम्।’ व्याघ्रः न्यवेदयत्-‘भो मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि।’ तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्। सोअवदत्, ‘भो मानव! पिपासुः अहम्। नद्याः जलमानीय मम पिपासां शमय। व्याघ्रः जलं पीत्वा पुनः व्याधमवदत्, ‘शमय मे पिपासा। साम्प्रतं बुभुक्षितोअस्मि। इदानीम् अहं त्वां खादिष्यामि।’ चंचलः उक्तवान्, ‘अहं त्वत्कृते धर्मम् आचरितवान्। त्वया मिथ्या भणितम्। त्वं मां खादितुम् इच्छसि?
सरलार्थ- --------coming soon------------------।
व्याघ्रः अवदत्, ‘अरे मूर्ख! क्षुधार्ताय किमपि अकार्यम् न भवति। सर्वः स्वार्थं समीहते।’ चंचलः नदीजलम् अपृच्छत्। नदीजलम् अवदत्, ‘एवमेव भवति, जनाः मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मल-मूत्रादिकं विसृज्य निवर्तन्ते, वस्तुतः सर्वः स्वार्थं समीहते। चंचलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, ‘मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’।
सरलार्थ------------coming soon-----------------------
समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वार्तां शृणोति स्म। सा सहसा चंचलमुपसृत्य कथयति-का वार्ता? माम् अपि विज्ञापय। सः अवदत्-अहह मातृस्वसः! अवसरे त्वं समागतवती। मया अस्य व्याघ्रस्य प्राणाः रक्षिताः, परम् एषः मामेव खादितुम् इच्छति। ̧ तदनन्तरं सः लोमशिकायै निखिलां कथां न्यवेदयत्। लोमशिका चंचलम् अकथयत्-बाढम्, त्वं जालं प्रसारय। पुनः सा व्याघ्रम् अवदत्-केन प्रकारेण त्वम् एतस्मिन् जाले बद्धः इति अहं प्रत्यक्षं द्रष्टुमिच्छामि। व्याघ्रः तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत्। लोमशिका पुनः अकथयत्-सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। सः तथैव समाचरत्। अनारतं कूर्दनेन सः श्रान्तः अभवत्। जाले बद्धः सः व्याघ्रः क्लान्तः सन् निःसहायो भूत्वा तत्र अपतत् प्राणभिक्षामिव च अयाचत। लोमशिका व्याघ्रम् अवदत् सत्यं त्वया भणितम् ‘सर्वः स्वार्थं समीहते।’ ।
सरलार्थ----------------coming soon-------------------।
Page No-33: 1:अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) व्याधस्य नाम किम्‌ आसीत्‌?
(क) चञ्चल:।।
(ख) चञ्चल: व्याघ्रं कुत्र दृष्टवान्‌?
(ख) वने।
(ग) विस्तृते जाले क: बद्ध: आसीत्‌?
(ग) व्याघ्र:।
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्‌?
(घ) लोमशिका।
(ङ)अनारतं कूर्दनेन क: श्रान्त: अभवत्‌?
(ङ) व्याघ्र:।
Page No 33: 2:संस्कृतेन उत्तरत-–
(क) चञ्चलेन वने किं कृतम्‌?
(क) चञ्चलेन वने जालं विस्तीर्यमम्।
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्‌?
(ख) व्याधेन आनीतेन नद्या: जलं पीत्वा व्याघ्रस्य पिपासा शान्ता अभवत्‌।
(ग) जलं पीत्वा व्याघ्र: किम्‌ अवदत्‌?
(ग) जलं पीत्वा व्याघ्र: अवदत्‌ यत्, “शान्ता मे पिपासा साम्प्रतं बुभुक्षितोऽस्मि। इदाभीम् अहं त्वां खादिष्यामि।”
(घ) चञ्चल: ‘मातृस्वस:!’ इति कां सम्बोधितवान्‌?
(घ)चञ्चल: ‘मातृस्वस:!’ इति लोमशिकां सम्बोधितवान्‌।
(ङ)जाले पुन: बद्धं व्याघ्रं दृष्ट्वा व्याध: किम्‌ अकरोत्‌?
(ङ)जाले पुन: बद्धं व्याघ्रं दृष्ट्वा व्याध: प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।
Page No 34: 3:अधोलिखितानि वाक्यानि क:/का कं/कां प्रति कथयति-
वाक्यानिक:/काकं/कां
यथा -इदानीम्‌ अहं त्वां खादिष्यामि।व्याघ्र:व्याधम्
(क) कल्याणं भवतु ते।व्याघ्र:व्याधम्
(ख) जना: मयि स्नानं कुर्वन्ति।नदीजलम्:व्याधम्
(ग) अरे मूर्ख! धर्मे धमनं पापे पुण्यं भवति एव।वृक्षम्व्याधम्
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति।वृक्ष:व्याधम्
(ङ) सम्प्रति पुन: पुन: कूर्दनं कृत्वा दर्शय।लोमशिकाव्याधम्
Page No 34: 4:सन्धिं कृत्वा लिखत-
मृग   +    आदीनाम्‌    =    मृगादीनाम्
तथा    +    एव    =    तथैव
कुत्र    +    अपि    =    कुत्रापि
बुभुक्षित:    +    अस्मि    =    बुभुक्षितोऽस्मि
प्रति   +   आ   +   अवर्तत   =   प्रत्यावर्तत
Page No 34: 5:उदाहरणानुसारं रिक्तस्थानानि पूरयत-
एकवचनम्‌द्विवचनम्‌बहुवचनम्‌
मातृ (प्रथमा)मातामातरौ मातर:
स्वसृ (प्रथमा)स्वसास्वसरौस्वसर:
मातृ (तृतीया)मात्रामातृभ्याम्‌मातृभि:
स्वसृ (तृतीया)स्वस्रास्वसृभ्याम्स्वसृभि:
स्वसृ (सप्तमी)स्वसरिस्वस्रो:स्वसृषृ
मातृ (सप्तमी)मातरिमात्रो:मातृषु
स्वसृ (षष्ठी)स्वसु:स्वस्रो:स्वसृणाम्‌
मातृ(षष्ठी)मातु:मात्रो:मातृणाम्
Page No 34:6: मञ्जूषात: पदानि चित्वा कथां पूरयत–
दृष्ट्वा   स्वकीयै:   कृतवान्‌   कर्तनम्‌   वृद्ध:   साट्टहासम्‌   तर्हि   क्षुद्र:   मोचयितुम्‌   अकस्मात्‌
एकस्मिन्‌ वने एक: वृद्ध: व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं कृतवान्‌ किन्तु जालात्‌ मुक्त: नाभवत्‌। अकस्मात्‌ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं दृष्ट्वा स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां मोचयितुम्‌ इच्छामि। तच्छ्रुत्वा व्याघ्र: साट्टहासम्‌ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयै: लघुदन्तै: तज्जालं कर्तनम्‌ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।
Page No 34: 7:धातुं प्रत्ययं च लिखत-
पदानिधातु:प्रत्यय:
गन्तुम्‌गम्‌तुमुन्‌
द्रष्टुम्‌दृशतुमुन्‌
करणीयकृअनीयर
पातुम्‌पातुमुन्‌
खादितुम्‌खाद्तुमुन्‌
कृत्वा‌कृत्वा